|
|
 |
 |
|
|
४ विराटपर्व.jpg)
॥ श्रीः ॥
4.17. अध्यायः 017
Mahabharata - Virata Parva - Chapter Topics
द्रौपद्या स्वात्मानं कामयमानस्य कीचकस्य परुषभाषणैः प्रत्याख्यानम् ॥ 1 ॥
Mahabharata - Virata Parva - Chapter Text
वैशम्पायन उवाच। 4-17-0x(3054)(28847)
एवमुक्ताऽनवद्याङ्गी कीचकेन दुरात्मना ।
द्रौपदी तमुवाचेदं सैरन्ध्रीवेषधारिणी ॥ 1 ॥ 4-17-1(28848)
अप्रार्थनीयामिहं मां सूतपुत्राभिमन्यसे।
निहीनवर्णां सैरेन्ध्रीं बीभत्सां केशकारिणीम् ॥ 2 ॥ 4-17-2(28849)
परदाराऽस्मि भद्रं ते न युक्तं तव सांप्रतम्।
दयिताः प्राणिनां दारा धर्मं समनुचिन्तय ॥ 3 ॥ 4-17-3(28850)
परदारे न ते बुद्धिर्जातु कार्या कथंचन ।
विवर्जनं ह्यकार्याणामेतत्सुपुरुषव्रतम् ॥ 4 ॥ 4-17-4(28851)
मिथ्याभिगृध्नो हि नरः पापात्मा मोहमास्थितः ।
अयशः प्राप्नुयाद्धोरं महद्वा प्राप्नुयाद्भयम् ॥ 5 ॥ 4-17-5(28852)
वैशम्पायन उवाच। 4-17-6x(3055)
एवमुक्तस्तु सैरन्ध्र्या कीचकः काममोहितः।
जानन्नपि सुदुर्बुद्धिः परदाराभिमर्शने ॥ 6 ॥ 4-17-6(28853)
दोषान्बहून्प्राणहरान्सर्वलोकविगर्हितान् ।
प्रोवाचेदं सुदुर्बुद्धिर्द्रौपदीमजितेन्द्रियः ॥ 7 ॥ 4-17-7(28854)
नार्हस्येवं वरारोहे प्रत्याख्यातुं वरानने ।
मां मन्मथसमाविष्टं त्वत्कृते चारुहासिनि ॥ 8 ॥ 4-17-8(28855)
प्रत्याख्याय च मां भीरु वशगं प्रियवादिनम् ।
नूनं त्वमसितापाङ्गि पश्चात्तापं करिष्यसि ॥ 9 ॥ 4-17-9(28856)
अहं हि सुभ्रु राज्यस्य कृत्स्नस्यास्य सुमध्यमे ।
प्रभुर्वासयिता चैव वीर्ये चाप्रतिमः क्षितौ ॥ 10 ॥ 4-17-10(28857)
पृथिव्यां मत्समो नास्ति कश्चिदन्यः पुमानिह ।
रूपयौवनसौभाग्यैर्भोगैश्चानुत्तमैः शुभैः ॥ 11 ॥ 4-17-11(28858)
सर्वकामसमृद्धेषु भोगेष्वनुपमेष्विह।
भोक्तव्येषु च कल्याणि कस्माद्दास्ये रता ह्यसि ॥ 12 ॥ 4-17-12(28859)
मया दत्तमिदं राज्यं स्वामिन्यसि शुभानने।
भजस्व मां वरारोहे भुङ्क्ष्वं भोगाननुत्तमान् ॥ 13 ॥ 4-17-13(28860)
एवमुक्ता तु सा साध्वी कीचकेनाशुभं वचः।
कीचकं प्रत्युवाचेदं गर्हयन्त्यस्य तद्वचः ॥ 14 ॥ 4-17-14(28861)
सैरन्ध्र्युवाच। 4-17-15x(3056)
मा सूतपुत्र मुह्यस्व माऽद्य त्यक्ष्यस्व जीवितम्।
जानीहि पञ्चभिर्घोरैर्नित्यं मामभिरक्षिताम् ॥ 15 ॥ 4-17-15(28862)
न चाप्यहं त्वया लभ्या गन्धर्वाः पतयो मम।
ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः ॥ 16 ॥ 4-17-16(28863)
अशक्यरूपं पुरुषैरध्वानं गन्तुमिच्छसि ॥ 17 ॥ 4-17-17(28864)
यथा निश्चेतनो बालः कूलस्थः कूलमुत्तरम्।
तर्तुमिच्छति मन्दात्मा तथा त्वं कर्तुमिच्छसि ॥ 18 ॥ 4-17-18(28865)
अन्तर्महीं वा यदि वोर्ध्वमुत्पतेः समुद्रपारं यदि वा प्रधावसि।
तथापि तेषां न विमोक्षमर्हसि प्रमाथिनो देवसुता हि खेचराः ॥ 19 ॥ 4-17-19(28866)
त्वं कालरात्रीमिव कश्चिदातुरः किं मां दृढं पार्थयसेऽद्य कीचक।
किं मातुरङ्के शयितो यथा शिशुश्चन्द्रं जिघृक्षुरिव मन्यसे हि माम् ॥ 20 ॥ 4-17-20(28867)
तेषां प्रियां प्रार्थयतो न ते भुवि गत्वा दिवं वा शरणं भविष्यति।
न वर्तते कीचक ते दृशा शुभं या तेन संजीवनमर्थयेत सा ॥ 21 ॥ ॥ 4-17-21(28868)
इति श्रीमन्महाभारते विराटपर्वणि कीचकवधपर्वणि सप्तदशोऽध्यायः ॥ 17 ॥
Mahabharata - Virata Parva - Chapter Footnotes
4-17-16 भूतिः ईश्वरी ऐश्वर्याभिमानिनी देवता ॥ 16 ॥ 4-17-17 अनङ्गाङ्गविहारिणी रतिरित्यर्थः ॥ 17 ॥ 4-17-18 ईक्षणपक्ष्माणां नेत्रपक्ष्मणां स्मितं ईषदुन्मीलं तदेव ज्योत्स्नोपम मनस आह्लादकरम् ॥ 18 ॥ 4-17-20 सुजातौ उन्नतौ। निरन्तरौ पृथत्वात्सांश्लिष्टौ ॥ 20 ॥ 4-17-21 कुड्भलेति मुकुलीभूतपद्माकारौ ॥ 21 ॥ 4-17-24 अग्निमदनो मदनाग्निः ॥ 24 ॥ 4-17-28 कामं स्मरम्। प्रकाममतिशयितम् ॥ 28 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|